रथस्यैकं
चक्रं भुजगयमिता सप्त तुरगाः
निरालंबो
मार्गः चरणविकलः सारथिरपि
रविर्यात्येवान्तं
प्रतिदिनमपारस्य नभसः
क्रियासिद्धिः
सत्त्वे भवति महतां नोपकरणे. 1
विजेतव्या
लङ्का चरण तरणीयो जलनिधिः
विपक्षो
पौलत्स्यः रणभुवि सहायाश्च कपयः
तथापि
मर्त्यो सः सकलमवधीत राक्षसकुलं
क्रियासिद्धिः
सत्त्वे भवति महतां नोपकरणे. 2
घटो
जन्मस्थानं मृगपरिजनो भूर्जवसनं
वने
वासः कन्दाशनमपिच दुःस्थं वपुरिदं
तथाप्येSकोगस्त्यः
सकलमपिबत वारिधिजलं
क्रियासिद्धिः
सत्त्वे भवति महतां नोपकरणे.3
न
पाण्डित्यं शास्त्राध्ययनजनितं नो कुलधनं
न
वाचो कौशल्यं न च किमपि साहाय्यमपरं
स
तु प्राणाचार्यो नत घटितवान संघमतुलं
क्रियासिद्धिः
सत्त्वे भवति महतां नोपकरणे.4
विनष्टं
स्वातन्त्र्यं सुचिरमवलुप्तं जनबलं
समाजैक्यं
क्षीणं विकृतिमगमत संस्कृतिरपि
प्रबुद्धं
स्वं राष्ट्रं तदपि कृतवान केशव गुरुः
क्रियासिद्धिः
सत्त्वे भवति महतां नोपकरणे.5